Vasiṣṭha-gamana
Vasiṣṭha’s Departure / The Episode of Sagara
मुक्तास्तेनाथ राज्ञा शकयवनकिरातादयः सद्य एव त्यक्तस्वाचारवेषा गिरिगहनगुहाद्याशयाः संबभूवुः / एता अद्यापि सद्भिः सततमवमता जातयो ऽसत्प्रवृत्त्या वर्त्तन्ते दुष्टचेष्टा जगति नरपतेः पालयन्तः प्रतिज्ञाम्
muktāstenātha rājñā śakayavanakirātādayaḥ sadya eva tyaktasvācāraveṣā girigahanaguhādyāśayāḥ saṃbabhūvuḥ / etā adyāpi sadbhiḥ satatamavamatā jātayo 'satpravṛttyā varttante duṣṭaceṣṭā jagati narapateḥ pālayantaḥ pratijñām
तेन राज्ञा मुक्ताः शकयवनकिरातादयः सद्य एव त्यक्तस्वाचारवेषाः गिरिगहनगुहाद्याशयाः संबभूवुः। एताः जातयः अद्यापि सद्भिः सततमवमताः असत्प्रवृत्त्या वर्त्तन्ते।