Vasiṣṭha-gamana
Vasiṣṭha’s Departure / The Episode of Sagara
मुमोचास्त्रं महारौद्रं भार्गवं रीपुभीषणम् / तेनोत्सृष्टातिरौद्रत्रिभुवनभयदप्रस्फुरद्भार्गवास्त्रज्वालादन्दह्यमानावशतनुततयस्ते नृपाः साद्य एव / वाय्वस्त्रावृत्तधूमोद्गमपटलतमोमुष्टदृष्टिप्रसारा भ्रेमुर्भूपृष्टलोठद्बहुलतमरजोगूढमात्रा मुहूर्त्तम्
mumocāstraṃ mahāraudraṃ bhārgavaṃ rīpubhīṣaṇam / tenotsṛṣṭātiraudratribhuvanabhayadaprasphuradbhārgavāstrajvālādandahyamānāvaśatanutatayaste nṛpāḥ sādya eva / vāyvastrāvṛttadhūmodgamapaṭalatamomuṣṭadṛṣṭiprasārā bhremurbhūpṛṣṭaloṭhadbahulatamarajogūḍhamātrā muhūrttam
स भार्गवं रिपुभीषणं महारौद्रमस्त्रं मुमोच। तेनोत्सृष्टेनातिरौद्रेण त्रिभुवनभयदेन भार्गवास्त्रज्वालया ते नृपाः सद्य एव दग्धतनवोऽभवन्; वाय्वस्त्रावृत्तधूमपटलतमसा दृष्टिप्रसारो मुहूर्तं मुषितः, भूपृष्ठे लुठद्बहुलरजोगूढा भ्रमन्ति स्म।