Agastyopadeśa: Viṣṇupada-stava-sādhanā and Paraśurāma’s Darśana of Hari
ये वै त्वदीयं चरणं भवश्रमान्निर्विण्मचित्ता विधिवत्स्मरन्ति / नमन्ति भक्त्याथ समर्चयन्ति वै परस्परं संसदि वर्णयन्ति
ye vai tvadīyaṃ caraṇaṃ bhavaśramānnirviṇmacittā vidhivatsmaranti / namanti bhaktyātha samarcayanti vai parasparaṃ saṃsadi varṇayanti
ये तु भवश्रमान्निर्विण्णचित्ताः विधिवत् त्वदीयं चरणं स्मरन्ति, भक्त्या नमन्ति समर्चयन्ति च, ते संसदि परस्परं तव महिमानं वर्णयन्ति।