Agastyopadeśa: Viṣṇupada-stava-sādhanā and Paraśurāma’s Darśana of Hari
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे भार्गवचरिते षट्त्रिंशत्तमो ऽध्यायः // ३६// वसिष्ठ उवाच दृष्ट्वा परशुरामस्तु तदाश्चर्यं महाद्भुतम् / जगाद सर्ववृत्तान्तं मृगयोस्तु यथाश्रुतम्
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāde bhārgavacarite ṣaṭtriṃśattamo 'dhyāyaḥ // 36// vasiṣṭha uvāca dṛṣṭvā paraśurāmastu tadāścaryaṃ mahādbhutam / jagāda sarvavṛttāntaṃ mṛgayostu yathāśrutam
इति श्रीब्रह्माण्डमहापुराणे वायुप्रोक्ते मध्यभागे तृतीयोपोद्धातपादे भार्गवचरिते षट्त्रिंशत्तमोऽध्यायः। वसिष्ठ उवाच—परशुरामः तदाश्चर्यं महाद्भुतं दृष्ट्वा, मृगयोः यथाश्रुतं सर्ववृत्तान्तं जगाद।