Jāmadagnya-Rāmasya Tapaścaraṇam
The Austerities of Rama Jamadagnya
वसिष्ठ उवाच रामस्य वचनं श्रुत्वा प्रीतो ऽपि तमिदं वचः / उवाच संक्रुद्ध इव व्याधरूपी पिनाकधृक्
vasiṣṭha uvāca rāmasya vacanaṃ śrutvā prīto 'pi tamidaṃ vacaḥ / uvāca saṃkruddha iva vyādharūpī pinākadhṛk
वसिष्ठ उवाच—रामस्य वचनं श्रुत्वा प्रीतोऽपि पिनाकधृक् व्याधरूपेण संक्रुद्ध इव तं प्रति इदं वचनम् उवाच।