Jāmadagnya-Rāmasya Tapaścaraṇam
The Austerities of Rama Jamadagnya
वसिष्ठ उवाच इत्येवमुक्तः प्रहसंस्तेन रामो महाद्युतिः / तूष्णीं क्षणमिव स्थित्वा दध्यौ किञ्चिदवाङ्मुखः
vasiṣṭha uvāca ityevamuktaḥ prahasaṃstena rāmo mahādyutiḥ / tūṣṇīṃ kṣaṇamiva sthitvā dadhyau kiñcidavāṅmukhaḥ
वसिष्ठ उवाच—इत्येवमुक्तः तेन महाद्युतिः रामः प्रहसन्, क्षणं तूष्णीं स्थित्वा किञ्चिदवाङ्मुखो दध्यौ।