Rāma’s Service to Parents and Departure to Visit the Paternal Grandparents
Pitāmaha-gṛha-gamana
तं नमस्कृत्य विधिवच्च्यवनं च महातपाः / सप्रहर्षं तदाज्ञातः प्रययावाश्रमं भृगोः
taṃ namaskṛtya vidhivaccyavanaṃ ca mahātapāḥ / sapraharṣaṃ tadājñātaḥ prayayāvāśramaṃ bhṛgoḥ
तं विधिवत् नमस्कृत्य, च्यवनं च, महातपाः सप्रहर्षं तदाज्ञातः भृगोः आश्रमं प्रययौ।