Nakṣatra-Śrāddha Phala-Vidhi
Results of Śrāddha by Asterism
आश्लेषासु पितॄनर्चन्वीरान्पुत्रानवाप्नुयात् / जातीनां भवति श्रेष्ठो मघासु श्राद्धमाचरन्
āśleṣāsu pitṝnarcanvīrānputrānavāpnuyāt / jātīnāṃ bhavati śreṣṭho maghāsu śrāddhamācaran
आश्लेषासु पितॄन् सम्यगर्चयन् वीरान् पुत्रान् अवाप्नुयात्। मघासु श्राद्धम् आचरन् जातीनां मध्ये श्रेष्ठो भवति॥