Śrāddha-kalpa: Dāna-phala-nirdeśa
Gifts in Śrāddha and Their Fruits
श्राद्धे चैतानि यो दद्यात्कामानाप्नोत्यनुत्तमान् / अलक्ष्मीं नाशयन्त्येते तमः सूर्योदयो यथा
śrāddhe caitāni yo dadyātkāmānāpnotyanuttamān / alakṣmīṃ nāśayantyete tamaḥ sūryodayo yathā
श्राद्धे य एतानि ददाति स कामान् अनुत्तमान् अवाप्नोति; एते अलक्ष्मीम् नाशयन्ति, यथा सूर्योदयः तमः।