Śrāddha-kalpa: Dāna-phala-nirdeśa
Gifts in Śrāddha and Their Fruits
श्राद्धे ह्युपानहौ दत्त्वा ब्राह्मणेभ्यः सदा बुधः / दिव्यं स लभते यानं वाजियुक्तं नवं तथा
śrāddhe hyupānahau dattvā brāhmaṇebhyaḥ sadā budhaḥ / divyaṃ sa labhate yānaṃ vājiyuktaṃ navaṃ tathā
श्राद्धे ब्राह्मणेभ्य उपानहौ दत्त्वा बुधः सदा, स दिव्यं नवं वाजियुक्तं यानं लभते।