वसिष्ठ उवाच एवम् अप्रतिबुद्धत्वाद् अबुद्धम् अनुवर्तते देहाद् देहसहस्राणि तथा च न स भिद्यते //
व्यास उवाच । योगं तु तव वक्ष्यामि यथावच्छृणु सत्तम । यं ज्ञात्वा सर्वपापेभ्यो मुच्यते योगवित्तमः ॥