एवम् अव्यक्तविषयं मोक्षम् आहुर् मनीषिणः पञ्चविंशतिमो यो ऽयं ज्ञानाद् एव प्रवर्तते //
यदा काष्ठं न भवति तदा वह्निर्न दृश्यते । तद्वच्छरीरे नष्टे वै नात्मा संदृश्यते क्वचित् ॥