Bhakti as the Easy and Supreme Yoga: Seeing Kṛṣṇa in All and Uddhava’s Departure to Badarikāśrama
श्रीभगवानुवाच गच्छोद्धव मयादिष्टो बदर्याख्यं ममाश्रमम् । तत्र मत्पादतीर्थोदे स्नानोपस्पर्शनै: शुचि: ॥ ४१ ॥ ईक्षयालकनन्दाया विधूताशेषकल्मष: । वसानो वल्कलान्यङ्ग वन्यभुक् सुखनि:स्पृह: ॥ ४२ ॥ तितिक्षुर्द्वन्द्वमात्राणां सुशील: संयतेन्द्रिय: । शान्त: समाहितधिया ज्ञानविज्ञानसंयुत: ॥ ४३ ॥ मत्तोऽनुशिक्षितं यत्ते विविक्तमनुभावयन् । मय्यावेशितवाक्चित्तो मद्धर्मनिरतो भव । अतिव्रज्य गतीस्तिस्रो मामेष्यसि तत: परम् ॥ ४४ ॥
śrī-bhagavān uvāca gacchoddhava mayādiṣṭo badary-ākhyaṁ mamāśramam tatra mat-pāda-tīrthode snānopasparśanaiḥ śuciḥ
श्रीभगवानुवाच—गच्छोद्धव मयादिष्टो बदर्याख्यं ममाश्रमम्। तत्र मत्पादतीर्थोदे स्नानोपस्पर्शनैः शुचिः, ईक्षयालकनन्दाया विधूताशेषकल्मषः। वसानो वल्कलान्यङ्ग वन्यभुक् सुखनिःस्पृहः, तितिक्षुर्द्वन्द्वमात्राणां सुशीलः संयतेन्द्रियः। शान्तः समाहितधिया ज्ञानविज्ञानसंयुतः, मत्तोऽनुशिक्षितं यत्ते विविक्तमनुभावयन्। मय्यावेशितवाक्चित्तो मद्धर्मनिरतो भव; अतिव्रज्य गतीस्तिस्रो मामेष्यसि ततः परम्।