एते भोक्ष्यन्ति पृथिवीं दशवर्षशतानि च । नवाधिकां च नवतिं मौला एकादश क्षितिम् ॥ २९ ॥ भोक्ष्यन्त्यब्दशतान्यङ्ग त्रीणि तै: संस्थिते तत: । किलकिलायां नृपतयो भूतनन्दोऽथ वङ्गिरि: ॥ ३० ॥ शिशुनन्दिश्च तद्भ्राता यशोनन्दि: प्रवीरक: । इत्येते वै वर्षशतं भविष्यन्त्यधिकानि षट् ॥ ३१ ॥
ete bhokṣyanti pṛthivīṁ daśa varṣa-śatāni ca navādhikāṁ ca navatiṁ maulā ekādaśa kṣitim
एते आभीर-गर्दभि-कङ्काः पृथिवीं दशवर्षशतानि नवाधिकां च नवतिं (१०९९) भोक्ष्यन्ति; मौलाः एकादश तु त्रीणि वर्षशतानि (३००) क्षितिं भोक्ष्यन्ति। तैः संस्थिते ततः किलकिलायां नृपतयो भूतनन्दोऽथ वङ्गिरिः, शिशुनन्दिश्च तद्भ्राता यशोनन्दिः प्रवीरक इति—एते वै वर्षशतं षडधिकं (१०६) भविष्यन्ति॥
In Canto 12, Chapter 1, Śukadeva describes successive Kali-yuga dynasties and foretells specific rulers and the approximate lengths of their reigns, including kings arising in Kilakilā.
He was answering Parīkṣit’s inquiries about the course of Kali-yuga—how society and leadership would unfold—so the king could understand the age’s decline and fix his mind on devotion to the Lord.
The verse encourages detachment from political change and historical cycles, and reminds one to invest faith in bhakti and spiritual practice rather than expecting lasting shelter from worldly rulers.