Lakṣmī’s Emergence, Dhanvantari, and the Advent of Mohinī-mūrti
एतस्मिन्नन्तरे विष्णु: सर्वोपायविदीश्वर: । योषिद्रूपमनिर्देश्यं दधार परमाद्भुतम् ॥ ४१ ॥ प्रेक्षणीयोत्पलश्यामं सर्वावयवसुन्दरम् । समानकर्णाभरणं सुकपोलोन्नसाननम् ॥ ४२ ॥ नवयौवननिर्वृत्तस्तनभारकृशोदरम् । मुखामोदानुरक्तालिझङ्कारोद्विग्नलोचनम् ॥ ४३ ॥ बिभ्रत् सुकेशभारेण मालामुत्फुल्लमल्लिकाम् । सुग्रीवकण्ठाभरणं सुभुजाङ्गदभूषितम् ॥ ४४ ॥ विरजाम्बरसंवीतनितम्बद्वीपशोभया । काञ्च्या प्रविलसद्वल्गुचलच्चरणनूपुरम् ॥ ४५ ॥ सव्रीडस्मितविक्षिप्तभ्रूविलासावलोकनै: । दैत्ययूथपचेत:सु काममुद्दीपयन् मुहु: ॥ ४६ ॥
etasminn antare viṣṇuḥ sarvopāya-vid īśvaraḥ yoṣid-rūpam anirdeśyaṁ dadhāra-paramādbhutam
अथ तस्मिन्नन्तरे विष्णुः सर्वोपायविदीश्वरः परमाद्भुतं योषिद्रूपम् अनिर्देश्यम् दधार। सा प्रेक्षणीया नवोत्पलश्यामा सर्वावयवसुन्दरी, समानकर्णाभरणा, सुकपोलोन्नसाननयौवनश्रीसमन्विता बभूव।
Because of the Supreme Lord’s assuming the form of a beautiful woman to arouse the lusty desires of the demons, a description of Her complete beauty is given here.