पुरुषभोगं हिरण्यभोगं वा मित्रमिति पुरुषभोगं मित्रं श्रेयः प्रुषभोगं मित्रं प्रतापकरं भवति यदा चोत्तिष्ठते तदा कार्यं साधयति इत्याचार्याः ॥ कZ_०७.९.२६ ॥
puruṣabhogaṃ hiraṇyabhogaṃ vā mitram iti puruṣabhogaṃ mitraṃ śreyaḥ pruṣabhogaṃ mitraṃ pratāpakaraṃ bhavati yadā cottiṣṭhate tadā kāryaṃ sādhayati ity ācāryāḥ
‘पुरुषभोगं’ वा ‘हिरण्यभोगं’ वा—इति मित्रम्। तत्र पुरुषभोगं मित्रं श्रेयः। आचार्याः आहुः—पुरुषभोगं मित्रं प्रतापं कीर्तिं च जनयति; यदा च उद्यच्छते तदा कार्यं साधयति।
Because troops translate directly into deployable capability and deterrent prestige; money may fund war, but manpower delivers immediate operational effect.