दूष्यामित्राभ्यां मूलहरेण वा ज्यायसा विगृहीतं त्रातुकामस्तथाविधमुपकारं कारयितुकामः सम्बन्धावेक्षी वा तदात्वे चायत्यां च लाभं न प्रतिगृह्णीयात् ॥ कZ_०७.८.०७ ॥
dūṣyāmitrābhyāṃ mūlahareṇa vā jyāyasā vigṛhītaṃ trātukāmas tathāvidham upakāraṃ kārayitukāmaḥ sambandhāvekṣī vā tadātve cāyatyāṃ ca lābhaṃ na pratigṛhṇīyāt
दूष्यामित्राभ्यां मूलहरेण वा ज्यायसा विगृहीतं त्रातुकामः, तथाविधमुपकारं कारयितुकामः, सम्बन्धावेक्षी वा—तदात्वे चायत्यां च लाभं न प्रतिगृह्णीयात्।
To signal credible protective commitment, preserve relationships, and build reputation capital that yields broader strategic returns than transactional extraction.