उत्तमाश्वस्य द्विद्रोणं शालिव्रीहियवप्रियङ्गूणामर्धशुष्कमर्धसिद्धं वा मुद्गमाषाणां वा पुलाकः स्नेहप्रस्थश्च पञ्चपलं लवणस्य मांसं पञ्चाशत्पलिकं रसस्याढकं द्विगुणं वा दध्नः पिण्डक्लेदनार्थं क्षारपञ्चपलिकः सुरायाः प्रस्थः पयसो वा द्विगुणः प्रतिपानम् ॥ कZ_०२.३०.१८ ॥
uttamāśvasya dvidroṇaṃ śālivrīhi-yava-priyaṅgūṇām ardhaśuṣkam ardhasiddhaṃ vā mudga-māṣāṇāṃ vā pulākaḥ sneha-prasthaś ca pañca-palaṃ lavaṇasya māṃsaṃ pañcāśat-palikaṃ rasasya āḍhakaṃ dviguṇaṃ vā dadhnaḥ piṇḍa-kledanārthaṃ kṣāra-pañcapalikaḥ surāyāḥ prasthaḥ payaso vā dviguṇaḥ pratipānam
उत्तमाश्वस्य—शालिव्रीहियवप्रियङ्गूनां द्विद्रोणं, अर्धशुष्कम् अर्धसिद्धं वा; अथवा मुद्गमाषयोः पुलाकः। स्नेहस्य प्रस्थः, लवणस्य पञ्चपलम्, मांसस्य पञ्चाशत्पलिकम्, रसस्याढकः; अथवा दध्नः द्विगुणम्। पिण्डक्लेदनार्थं क्षारस्य पञ्चपलम्। प्रतिपानार्थं सुरायाः प्रस्थः, अथवा पयसो द्विगुणम्।
It defines authorized substitutes and preparation standards, allowing procurement flexibility while preventing unauthorized substitutions and skimming.
Quantification converts care into an accountable checklist—enabling stock ledgers, inspection, and penalties for short-issue.