Adhyaya 27
AdhyakshapracharaAdhyaya 27

Adhyaya 27

Book 2 operationalizes the Vijigīṣu’s power by converting governance into measurable routines: registration, pricing, audits, labor assignment, and punishments. Chapter 2.27 treats the gaṇikā institution as a fiscal-and-police instrument rather than a private vice: the state recruits qualified women, assigns ranks and fees, records income/expenses, and prevents dissipation of assets. Simultaneously, it treats coercion, confinement, expulsion, or disfigurement of a gaṇikā as a punishable offense, because the state’s revenue stream and urban stability depend on her protected agency. Inheritance/maintenance rules (mother, daughter/sister, or the king by default) integrate this profession into the legal order and prevent property from escaping the tax-and-penalty net. The chapter thus strengthens Kośa by formalizing a high-yield urban sector and strengthens Durga by regulating public-facing entertainment, mobility, and violence within the city—classic Kautilyan pragmatism: welfare and protection are designed to secure revenue, discipline, and sovereign control.

Sutras

Sutra 1

गणिकाध्यक्षो गणिकान्वयामगणिकान्वयां वा रूपयौवनशिल्पसम्पन्नां सहस्रेण गणिकां कारयेत्कुटुम्बार्धेन प्रतिगणिकाम् ॥ कZ_०२.२७.०१ ॥

गणिकाध्यक्षः गणिकान्वयाम् अगणिकान्वयां वा रूप-यौवन-शिल्पसम्पन्नां स्त्रीं सहस्रेण गणिकां कारयेत्; प्रतिगणिकां तु कुटुम्बार्धेन।

Sutra 2

निष्पतिताप्रेतयोर्दुहिता भगिनी वा कुटुम्बं भरेत माता वा प्रतिगणिकां स्थापयेत् ॥ कZ_०२.२७.०२ ॥

निष्पतितायाः प्रेतायाश्च गणिकायाः दुहिता भगिनी वा कुटुम्बं भरेत; माता वा प्रतिगणिकां स्थापयेत्।

Sutra 3

तासामभावे राजा हरेत् ॥ कZ_०२.२७.०३ ॥

तासाम् अभावे राजा हरेत्।

Sutra 4

सौभाग्यालंकारवृद्ध्या सहस्रेण वारं कनिष्ठं मध्यममुत्तमं वारोपयेत् छत्रभृङ्गारव्यजनशिबिकापीठिकारथेषु च विशेषार्थम् ॥ कZ_०२.२७.०४ ॥

सौभाग्यालंकारवृद्ध्या सहस्रेण वारं कनिष्ठं मध्यमम् उत्तमं वा वारोपयेत; छत्र-भृङ्गार-व्यजन-शिबिका-पीठिका-रथेषु च विशेषार्थं (शुल्कं) स्यात्।

Sutra 5

सौभाग्यभङ्गे मातृकां कुर्यात् ॥ कZ_०२.२७.०५ ॥

सौभाग्यभङ्गे तस्याः भरणार्थं मातृकां कुर्यात्।

Sutra 6

निष्क्रयश्चतुर्विंशतिसाहस्रो गणिकायाः द्वादशसाहस्रो गणिकापुत्रस्य ॥ कZ_०२.२७.०६ ॥

गणिकायाः निष्क्रयः चतुर्विंशतिसाहस्रः; गणिकापुत्रस्य द्वादशसाहस्रः।

Sutra 7

अष्टवर्षात्प्रभृति राज्ञः कुशीलवकर्म कुर्यात् ॥ कZ_०२.२७.०७ ॥

अष्टवर्षात् प्रभृति (गणिकायाः अपत्यं) राज्ञः कुशीलवकर्म कुर्यात्।

Sutra 8

गणिकादासी भग्नभोगा कोष्ठागारे महानसे वा कर्म कुर्यात् ॥ कZ_०२.२७.०८ ॥

गणिकादासी भग्नभोगा कोष्ठागारे महानसे वा कर्म कुर्यात्।

Sutra 9

अविशन्ती सपादपणमवरुद्धा मासवेतनं दद्यात् ॥ कZ_०२.२७.०९ ॥

अविशन्ती सपादपणम् अवरुद्धा मासवेतनं दद्यात्।

Sutra 10

भोगं दायमायं व्ययमायतिं च गणिकाया निबन्धयेत् अतिव्ययकर्म च वारयेत् ॥ कZ_०२.२७.१० ॥

भोगं दायमायं व्ययमायतिं च गणिकाया निबन्धयेत्; अतिव्ययकर्म च वारयेत्।

Sutra 11

मातृहस्तादन्यत्र अभरणन्यासे सपादचतुष्पणो दण्डः ॥ कZ_०२.२७.११ ॥

मातृहस्तादन्यत्राभरणन्यासे सपादचतुष्पणो दण्डः।

Sutra 12

स्वापतेयं विक्रयमाधानं वा नयन्त्याः सपादपञ्चाशत्पणः पणोऽर्धपणच्छेदने ॥ कZ_०२.२७.१२ ॥

स्वापतेयं विक्रयमाधानं वा नयन्त्याः सपादपञ्चाशत्पणो दण्डः; पणोऽर्धपणच्छेदने तदनुरूपः।

Sutra 13

अकामायाः कुमार्या वा साहसे उत्तमो दण्डः सकामायाः पूर्वः साहसदण्डः ॥ कZ_०२.२७.१३ ॥

अकामायाः कुमार्या वा साहसे उत्तमो दण्डः; सकामायाः पूर्वः साहसदण्डः।

Sutra 14

गणिकामकामां रुन्धतो निष्पातयतो वा व्रणविदारणेन वा रूपं उपघ्नतः सहस्रं दण्डः ॥ कZ_०२.२७.१४ ॥

गणिकामकामां रुन्धतो निष्पातयतो वा व्रणविदारणेन वा रूपमुपघ्नतः सहस्रं दण्डः।

Sutra 15

स्थान्विशेषेण वा दण्डवृद्धिः आनिष्क्रयद्विगुणात् ॥ कZ_०२.२७.१५ ॥

स्थानविशेषेण वा दण्डवृद्धिः—आनिष्क्रयद्विगुणात्।

Sutra 16

प्राप्ताधिकारं गणिकां घतयतो निष्क्रयत्रिगुणो दण्डः ॥ ॥

प्राप्ताधिकारां गणिकां घातयतः निष्क्रयत्रिगुणो दण्डः।

Sutra 17

मातृकादुहितृकारूपदासीनां घाते उत्तमः साहसदण्डः ॥ कZ_०२.२७.१७ ॥

मातृकादुहितृकारूपदासीनां घाते उत्तमः साहसदण्डः।

Sutra 18

सर्वत्र प्रथमेऽपराधे प्रथमः द्वितीये द्विगुणः तृतीये त्रिगुणः चतुर्थे यथाकामी स्यात् ॥ कZ_०२.२७.१८ ॥

सर्वत्र प्रथमेऽपराधे प्रथमः, द्वितीये द्विगुणः, तृतीये त्रिगुणः, चतुर्थे यथाकामी स्यात्।

Sutra 19

राजाज्ञया पुरुषमनभिगच्छन्ती गणिका शिफासहस्रं लभेएत पञ्चसहस्रं वा दण्डः ॥ कZ_०२.२७.१९ ॥

If a courtesan, despite the king’s order, does not go to a man (summoned/assigned), she shall receive one thousand lashes; or she shall be fined five thousand.

Sutra 20

भोगं गृहीत्वा द्विषत्या भोगद्विगुणो दण्डः ॥ कZ_०२.२७.२० ॥

भोगं गृहीत्वा ततः परं यदि सा प्रतिज्ञां न पालयति, तदा भोगद्विगुणो दण्डः (न्यूनतमं द्विशतं) ।

Sutra 21

वसतिभोगापहारे भोगमष्टगुणं दद्यादन्यत्र व्याधिपुरुषदोषेभ्यः ॥ कZ_०२.२७.२१ ॥

वसतिभोगस्य च भोगस्य च अपहारे भोगमष्टगुणं दद्याद्, अन्यत्र व्याधेः पुरुषदोषस्य च कारणात् ।

Sutra 22

पुरुषं घ्नत्याश्चिताप्रतापेऽप्सु प्रवेशनं वा ॥ कZ_०२.२७.२२ ॥

पुरुषं हन्ति चेत्, चिताप्रतापः; अथवा अप्सु प्रवेशनं (जलनिमज्जनं) ।

Sutra 23

गणिकाभरणमर्थं भोगं वापहरतोऽष्टगुणो दण्डः ॥ कZ_०२.२७.२३ ॥

गणिकाभरणम् अर्थं भोगं वा अपहरतः मूल्यस्य अष्टगुणो दण्डः ।

Sutra 24

गणिका भोगमायतिं पुरुषं च निवेदयेत् ॥ कZ_०२.२७.२४ ॥

गणिका प्राप्तं भोगम् आयतिं पुरुषं च निवेदयेत् ।

Sutra 25

एतेन नटनर्तकगायनवादकवाग्जीवनकुशीलवप्लवकसौभिकचारणानां स्त्रीव्यवहारिणां स्त्रियो गूढाजीवाश्च व्याख्याताः ॥ कZ_०२.२७.२५ ॥

एतेन नटनर्तकगायनवादकवाग्जीवनकुशीलवप्लवकसौभिकचारणानां स्त्रीव्यवहारिणां स्त्रियो गूढाजीवाश्च व्याख्याताः।

Sutra 26

तेषां तूर्यमागन्तुकं पञ्चपणं प्रेक्षावेतनं दद्यात् ॥ कZ_०२.२७.२६ ॥

तेषां तूर्यमागन्तुकं पञ्चपणं प्रेक्षावेतनं दद्यात्।

Sutra 27

रूपाजीवा भोगद्वयगुणं मासं दद्युः ॥ कZ_०२.२७.२७ ॥

रूपाजीवा भोगद्वयगुणं मासं दद्युः।

Sutra 28

गीतवाद्यपाठ्यनृत्यनाट्याक्षरचित्रवीणावेणुमृदङ्गपरचित्तज्ञानगन्धमाल्यसम्यूहनसंवादनसंवाहनवैशिककलाज्ञानानि गणिका दासी रङ्गोपजीविनीश्च ग्राहयतो राजमण्डलादाजीवं कुर्यात् ॥ कZ_०२.२७.२८ ॥

गीतवाद्यपाठ्यनृत्यनाट्याक्षरचित्रवीणावेणुमृदङ्गपरचित्तज्ञानगन्धमाल्यसम्यूहनसंवादनसंवाहनवैशिककलाज्ञानानि गणिका दासी रङ्गोपजीविनीश्च ग्राहयतो राजमण्डलादाजीवं कुर्यात्।

Sutra 29

गणिकापुत्रान् रङ्गोपजीविनां च मुख्यान्निष्पादयेयुः सर्वतालावचराणां च ॥ कZ_०२.२७.२९ ॥

गणिकापुत्रान् रङ्गोपजीविनां मुख्यान् सर्वतालावचराणां च राज्यकार्याय निष्पादयेयुः।

Sutra 30

चारघातप्रमादार्थं प्रयोज्या बन्धुवाहनाः ॥ कZ_०२.२७.३०च्द् ॥

चारघातप्रमादार्थं बन्धुवाहनाः प्रयोज्याः।

Frequently Asked Questions

Urban welfare through regulated livelihoods, reduced coercion/violence against registered women, predictable maintenance of dependents, and stable city-order; simultaneously, fiscal welfare via audited high-value income streams and prevention of asset dissipation.

Fines for unauthorized jewelry deposits (sapāda-catuṣpaṇa), for moving/selling/pledging savings (sapāda-pañcāśatpaṇa; plus cutting penalties for partial amounts), graded sāhasa penalties for sexual violence (uttama for unwilling/virgin; pūrva for willing), a 1000-paṇa fine for coercing/confining/expelling or disfiguring a gaṇikā, and enhanced penalties by location up to twice the amount tied to the unpaid redemption value (ā-niṣkraya-dviguṇa).