षडङ्गुलादूर्ध्वमष्टाङ्गुलोत्तरा दश तुलाः कारयेत् लोहपलादूर्ध्वमेकपलोत्तराः यन्त्रमुभयतःशिक्यं वा ॥ कZ_०२.१९.११ ॥
ṣaḍaṅgulādūrdhvamaṣṭāṅgulottarā daśa tulāḥ kārayet lohapalādūrdhvamekapalottarāḥ yantramubhayataḥśikyaṃ vā
षडङ्गुलात् ऊर्ध्वम् अष्टाङ्गुलोत्तराः दश तुलाः कारयेत्; लोहपलात् ऊर्ध्वम् एकपलोत्तराः (लोह-भाराः) च; अथवा उभयतःशिक्यं यन्त्रम्।
Different load ranges require different beam lengths and counterweights; standardized sets improve accuracy and reduce scope for dispute.