Kaivalya
यत्परं ब्रह्म सर्वात्मा विश्वस्यायतनं महत् । सूक्ष्मात्सूक्ष्मतरं नित्यं तत्त्वमेव त्वमेव तत् ॥१६॥
यत् । परम् । ब्रह्म । सर्व-आत्मा । विश्वस्य । आयतनम् । महत् । सूक्ष्मात् । सूक्ष्म-तरम् । नित्यम् । तत् । त्वम् । एव । त्वम् । एव । तत् ॥
yat paraṃ brahma sarvātmā viśvasyāyatanaṃ mahat | sūkṣmāt sūkṣmataraṃ nityaṃ tattvam eva tvam eva tat ||16||
То высшее Брахман — Самость всего, великое прибежище и опора вселенной, тоньше тончайшего, вечное — то и есть Истина; ты воистину есть То.
That supreme Brahman—(which is) the Self of all, the great abode/support of the universe, subtler than the subtle, eternal—That Reality indeed (is); you indeed are That.