HomeUpanishadsAkshiVerse 43
Previous Verse
Next Verse

Verse 43

Akshi

विदेहमुक्ततात्रोक्ता सप्तमी योगभूमिका। अगम्या वचसां शान्ता सा सीमा सर्वभूमिषु॥ लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम्। शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु॥ ओङ्कारमात्रमखिलं विश्वप्राज्ञादिलक्षणम्। वाच्यवाच्यकताभेदाभेदेनानुपलब्धितः॥ अकारमात्रं विश्वः स्यादुकारतैजसः स्मृतः। प्राज्ञो मकार इत्येवं परिपश्येत्क्रमेण तु॥ समाधिकालात्प्रागेव विचिन्त्यातिप्रयत्नतः। स्थूलसूक्ष्मक्रमात्सर्वं चिदात्मनि विलापयेत्॥ चिदात्मानं नित्यशुद्धबुद्धमुक्तसदद्वयः। परमानन्दसन्देहो वासुदेवोऽहम् ओमिति॥ आदिमध्यावसानेषु दुःखं सर्वमिदं यतः। तस्मात्सर्वं परित्यज्य तत्त्वनिष्ठो भवानघ॥ अविद्यातिमिरातीतं सर्वाभासविवर्जितम्। आनन्दममलं शुद्धं मनोवाचामगोचरम्॥ प्रज्ञानघनमानन्दं ब्रह्मास्मीति विभावयेत्॥

विदेह-मुक्तता । अत्र । उक्ता । सप्तमी । योग-भूमिका । अगम्या । वचसाम् । शान्ता । सा । सीमा । सर्व-भूमिषु ॥ लोक-अनुवर्तनम् । त्यक्त्वा । त्यक्त्वा । देह-अनुवर्तनम् । शास्त्र-अनुवर्तनम् । त्यक्त्वा । स्व-अध्यास-अपनयम् । कुरु ॥ ओङ्कार-मात्रम् । अखिलम् । विश्व-प्राज्ञ-आदि-लक्षणम् । वाच्य-वाच्यकता-भेद-अभेदेन । अनुपलब्धितः ॥ अकार-मात्रम् । विश्वः । स्यात् । उकारता । तैजसः । स्मृतः । प्राज्ञः । मकारः । इति । एवम् । परिपश्येत् । क्रमेण । तु ॥ समाधि-कालात् । प्राक् । एव । विचिन्त्यात् । अति-प्रयत्नतः । स्थूल-सूक्ष्म-क्रमात् । सर्वम् । चित्-आत्मनि । विलापयेत् ॥ चित्-आत्मानम् । नित्य-शुद्ध-बुद्ध-मुक्त-सत्-अद्वयः । परम्-आनन्द-सन्देहः । वासुदेवः । अहम् । ओम् । इति ॥ आदि-मध्य-अवसानेषु । दुःखम् । सर्वम् । इदम् । यतः । तस्मात् । सर्वम् । परित्यज्य । तत्त्व-निष्ठः । भव । अनघ ॥ अविद्या-तिमिर-अतीतम् । सर्व-आभास-विवर्जितम् । आनन्दम् । अमलम् । शुद्धम् । मनः-वाचाम् । अगोचरम् ॥ प्रज्ञान-घनम्-आनन्दम् । ब्रह्म । अस्मि । इति । विभावयेत् ॥

videhamuktatātroktā saptamī yogabhūmikā | agamyā vacasāṃ śāntā sā sīmā sarvabhūmiṣu॥ lokānuvartanaṃ tyaktvā tyaktvā dehānuvartanam | śāstrānuvartanaṃ tyaktvā svādhyāsāpanayaṃ kuru॥ oṅkāramātramakhilaṃ viśvaprajñādilakṣaṇam | vācya-vācyakatā-bhedābhedenānupalabdhitaḥ॥ akāramātraṃ viśvaḥ syād ukāratā taijasaḥ smṛtaḥ | prājño makāra ity evaṃ paripaśyet krameṇa tu॥ samādhikālāt prāgeva vicintyātiprayatnataḥ | sthūlasūkṣmakramāt sarvaṃ cidātmani vilāpayet॥ cidātmānaṃ nityaśuddhabuddhamuktasadadvayaḥ | paramānandasandeho vāsudevo'ham om iti॥ ādimadhyāvasāneṣu duḥkhaṃ sarvamidaṃ yataḥ | tasmāt sarvaṃ parityajya tattvaniṣṭho bhavānagha॥ avidyātimirātītaṃ sarvābhāsavivarjitam | ānandamamalaṃ śuddhaṃ manovācām agocaram॥ prajñānaghanamānandaṃ brahmāsmīti vibhāvayet॥

Как в Akshi.41: седьмая ступень — бестелесное освобождение, мирное и выше слов; оставь следование миру, телу и даже писанию и устрани адхьясу. Всё — Оṃ; A-U-M соответствуют бодрствованию, сновидению и глубокому сну. До самадхи размышляй с усилием; от грубого к тонкому растворяй всё в сознающем Атмане. Утверди: «Я — Васудева, Оṃ»; Атман чист, свободен, реален, недвойствен, высшее блаженство. Видя сансару как страдание в начале, середине и конце, оставь всё и пребывай в истине. Созерцай: «Я — Брахман, плотная масса сознания и блаженства», вне ума и речи.

Same as Akshi.41 (duplicate in the supplied text): The seventh stage is disembodied liberation, beyond speech; abandon worldly, bodily, and scriptural conformity and remove superimposition; contemplate Oṃ as A-U-M corresponding to waking/dream/deep sleep; dissolve all into the conscious Self; affirm the nondual Self as pure, free, bliss—‘I am Vāsudeva, Oṃ’; recognizing saṃsāra as suffering throughout, abandon all and abide in truth; contemplate ‘I am Brahman, a mass of consciousness and bliss,’ beyond mind and speech.

Praṇava as Brahman; adhyāsa removal; Brahmātma-aikyaMahavakya: Reinforces ‘Aham Brahmāsmi’ / ‘Prajñānam Brahma’.AtharvaChandas: Prose/metrical mixed (later Upaniṣadic)