Akshi
द्विप्रकारसंसर्गं तस्य भेदमिमं शृणु ।
द्विविधोऽयमसंसर्गः सामान्यः श्रेष्ठ एव च ॥
नाहं कर्ता न भोक्ता च न बाध्यो न च बाधकः ।
इत्यसंजनमर्थेषु सामान्यासङ्गनामकम् ॥
प्राक्कर्मनिर्मितं सर्वमीश्वराधीनमेव वा ।
सुखं वा यदि वा दुःखं कैवात्र तव कर्तृता ॥
भोगाभोगा महारोगाः सम्पदः परमापदः ।
वियोगायैव संयोगा आधयो व्याधयो धियाम् ॥
कालश्च कलनोद्युक्तः सर्वभावाननारतम् ।
अनास्थयेति भावानां यदभावनमान्तरम् ।
वाक्यार्थलब्धमनसः समान्योऽसावसङ्गमः ॥२०–२४॥
द्वि-प्रकार-संसर्गम् । तस्य । भेदम् । इमम् । शृणु ।
द्वि-विधः । अयम् । असंसर्गः । सामान्यः । श्रेष्ठः । एव । च ।
न । अहम् । कर्ता । न । भोक्ता । च । न । बाध्यः । न । च । बाधकः ।
इति । असंजनम् । अर्थेषु । सामान्य-असङ्ग-नामकम् ।
प्राक्-कर्म-निर्मितम् । सर्वम् । ईश्वर-अधीनम् । एव । वा ।
सुखम् । वा । यदि । वा । दुःखम् । का । एव । अत्र । तव । कर्तृता ।
भोग-अभोगाः । महा-रोगाः । सम्पदः । परम-आपदः ।
वियोगाय । एव । संयोगाः । आधयः । व्याधयः । धियाम् ।
कालः । च । कलन-उद्युक्तः । सर्व-भावान् । अनारतम् ।
अनास्थया । इति । भावानाम् । यत् । अभावनम् । अन्तरम् ।
वाक्य-अर्थ-लब्ध-मनसः । सामान्यः । असौ । असङ्गमः ।
dviprakārasaṃsargaṃ tasya bhedam imaṃ śṛṇu |
dvividhoyam asaṃsargaḥ sāmānyaḥ śreṣṭha eva ca ||
nāhaṃ kartā na bhoktā ca na bādhyo na ca bādhakaḥ |
ity asaṃjanam artheṣu sāmānyāsaṅganāmakaḥ ||
prākkarmanirmitaṃ sarvam īśvarādhīnam eva vā |
sukhaṃ vā yadi vā duḥkhaṃ kaivātra tava kartṛtā ||
bhogābhogā mahārogāḥ sampadaḥ paramāpadaḥ |
viyogāyaiva saṃyogā ādhayo vyādhayo dhiyām ||
kālaś ca kalanodyuktaḥ sarvabhāvān anāratam |
anāsthayeti bhāvānāṃ yad abhāvanam antaram |
vākyārthalabdhamanasaḥ sāmānyo'sāv asaṅgamaḥ ||20–24||
Внемли различению о сопричастности: несопричастность двояка — обычная и высшая. «Я не деятель и не вкушающий; не поражаемый и не поражающий»: это неприлепление к предметам называется обычной непривязанностью. Сделано ли всё прежней кармой или зависит лишь от Господа — счастье ли, страдание ли — какая тут твоя агентность? Наслаждения и ненаслаждения — великие болезни; благополучия — высшие бедствия; союзы — лишь ради разлуки; скорби и недуги принадлежат уму. Время, занятое измерением, непрестанно изменяет все состояния. Внутренний промежуток, именуемый «неозабоченностью», то есть не-концептуализация состояний, — это обычная несопричастность для того, чей ум обрёл смысл учения.
Hear the distinction of association: non-association is twofold—ordinary and supreme. ‘I am not the agent nor the enjoyer, neither the affected nor the affector’: this non-clinging toward objects is termed ordinary non-attachment. Whether everything is made by prior karma or is dependent on the Lord alone—whether happiness or sorrow—what agency is yours here? Enjoyments and non-enjoyments are great diseases; prosperities are supreme calamities; unions are only for separation; afflictions and illnesses pertain to the mind. Time, engaged in measuring, ceaselessly (alters) all states. The inner interval that is “non-concern,” namely the non-conceptualizing of states—this is the ordinary non-association for one whose mind has obtained the meaning of the teaching.