Akshi
अथ ह सांकृतिः भगवान् आदित्यलोकं जगाम। तम् आदित्यं नत्वा चाक्षुष्मतीविद्यया तम् अस्तुवत्। ॐ नमो भगवते श्रीसूर्यायाक्षितेजसे नमः। ॐ खेचराय नमः। ॐ महासेनाय नमः। ॐ तमसे नमः। ॐ रजसे नमः। ॐ सत्त्वाय नमः। ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। हंसो भगवाञ्छुचिरूपः प्रतिरूपः। विश्वरूपं घृणिनं जातवेदसं हिरण्मयं ज्योतीरूपं तपन्तम्। सहस्ररश्मिः शतधा वर्तमानः पुरुषः प्रजानामुदयत्येष सूर्यः। ॐ नमो भगवते श्रीसूर्यायादित्यायाक्षितेजसेऽहोवाहिनि वाहिनि स्वाहेति। एवं चाक्षुष्मतीविद्यया स्तुतः श्रीसूर्यनारायणः सुप्रीतोऽब्रवीत्—चाक्षुष्मतीविद्यां ब्राह्मणो यो नित्यमधीते न तस्याक्षिरोगो भवति। न तस्य कुलेऽन्धो भवति। अष्टौ ब्राह्मणान् ग्राहयित्वाथ विद्यासिद्धिर्भवति। य एवं वेद स महान् भवति॥१॥
अथ । ह । सांकृतिः । भगवान् । आदित्य-लोकम् । जगाम । तम् । आदित्यम् । नत्वा । चाक्षुष्मती-विद्यया । तम् । अस्तुवत् । ॐ । नमः । भगवते । श्री-सूर्याय । अक्षि-तेजसे । नमः । ॐ । खेचराय । नमः । ॐ । महा-सेनाय । नमः । ॐ । तमसे । नमः । ॐ । रजसे । नमः । ॐ । सत्त्वाय । नमः । ॐ । असतः । मा । सत्-गमय । तमसः । मा । ज्योतिः-गमय । मृत्योः । मा । अमृतम् । गमय । हंसः । भगवान् । शुचि-रूपः । प्रति-रूपः । विश्व-रूपम् । घृणिनम् । जात-वेदसम् । हिरण्मयम् । ज्योति-रूपम् । तपन्तम् । सहस्र-रश्मिः । शतधा । वर्तमानः । पुरुषः । प्रजानाम् । उदयति । एषः । सूर्यः । ॐ । नमः । भगवते । श्री-सूर्याय । आदित्याय । अक्षि-तेजसे । अहो-वाहिनि । वाहिनि । स्वाहा । इति । एवम् । चाक्षुष्मती-विद्यया । स्तुतः । श्री-सूर्य-नारायणः । सु-प्रीतः । अब्रवीत् । चाक्षुष्मती-विद्याम् । ब्राह्मणः । यः । नित्यम् । अधीते । न । तस्य । अक्षि-रोगः । भवति । न । तस्य । कुले । अन्धः । भवति । अष्टौ । ब्राह्मणान् । ग्राहयित्वा । अथ । विद्या-सिद्धिः । भवति । यः । एवम् । वेद । सः । महान् । भवति ॥
atha ha sāṅkṛtiḥ bhagavān ādityalokaṃ jagāma | tam ādityaṃ natvā cākṣuṣmatīvidyayā tam astuvat | oṃ namo bhagavate śrīsūryāyākṣitejase namaḥ | oṃ khecarāya namaḥ | oṃ mahāsenāya namaḥ | oṃ tamase namaḥ | oṃ rajase namaḥ | oṃ sattvāya namaḥ | oṃ asato mā sadgamaya | tamaso mā jyotirgamaya | mṛtyormā’mṛtaṃ gamaya | haṃso bhagavāñ śucirūpaḥ pratirūpaḥ | viśvarūpaṃ ghṛṇinaṃ jātavedasaṃ hiraṇmayaṃ jyotīrūpaṃ tapantam | sahasraraśmiḥ śatadhā vartamānaḥ puruṣaḥ prajānām udayatyeṣa sūryaḥ | oṃ namo bhagavate śrīsūryāyādityāyākṣitejase’hovāhini vāhini svāheti | evaṃ cākṣuṣmatīvidyayā stutaḥ śrīsūryanārāyaṇaḥ suprīto’bravīt—cākṣuṣmatīvidyāṃ brāhmaṇo yo nityam adhīte na tasyākṣirogo bhavati | na tasya kule’ndho bhavati | aṣṭau brāhmaṇān grāhayitvātha vidyāsiddhir bhavati | ya evaṃ veda sa mahān bhavati ||1||
Тогда Са̄ṅкṛти спросил Адитью: «О почтенный, поведай мне брахма-видью — знание Брахмана». Адитья сказал ему: «Са̄ṅкṛти, слушай; я возвещу знание Истины, крайне труднодостижимое; лишь узнав его, ты станешь освобождённым при жизни».
Then indeed Sāṅkṛti, the venerable one, went to the world of Āditya (the Sun). Having bowed to that Āditya, he praised him by means of the Cākṣuṣmatī-vidyā (the ‘eye-endowing’ knowledge). (He recited:) ‘Om, homage to the Blessed Lord, to the glorious Sun, to the radiance of the eye—homage. Om, homage to the Sky-goer. Om, homage to the Great-Commander. Om, homage to darkness. Om, homage to rajas. Om, homage to sattva. Om, lead me from the unreal to the real; lead me from darkness to light; lead me from death to immortality. The Lord is the Haṃsa, of pure form, the archetype; of universal form, the radiant one, Jātavedas, golden, of the form of light, blazing. With a thousand rays, proceeding in a hundred ways, this Puruṣa, the Sun, rises for creatures. Om, homage to the Blessed Lord, to the glorious Sun, to Āditya, to the radiance of the eye—O carrier, carrier, svāhā.’ Thus praised by the Cākṣuṣmatī-vidyā, Śrī Sūrya-Nārāyaṇa, well-pleased, said: ‘The brāhmaṇa who daily studies the Cākṣuṣmatī-vidyā—there is no disease of the eyes for him; in his lineage none becomes blind. Having caused eight brāhmaṇas to receive (it), then the attainment of the vidyā occurs. He who thus knows becomes great.’