देवी॑रापो अपां नपा॒द्यो व॑ ऊ॒र्मिर्ह॑वि॒ष्य॒ इन्द्रि॒यावा॑न् म॒दिन्त॑मः । तं दे॒वेभ्यो॑ देव॒त्रा द॑त्त शुक्र॒पेभ्यो॒ येषां॑ भा॒ग स्थ॒ स्वाहा॑ ॥
devī́r ā́po apā́ṃ napād yó va ū́rmir haviṣyá índriyāvān madíntamaḥ | táṃ devébhyo devatrā́ datta śukrapébhyo yéṣāṃ bhāgáḥ stha svā́hā ||
О божественные Воды, и Апāм Напāt — тот, кто есть ваша волна, достойный возлияния, исполненный силы, наипаче радующий: его даруйте богам, по-божески, — светлым питцам, чьей долей вы являетесь. Сва̄ха̄!
देवीः । आपः । अपाम् । नपात् । यः । वः । ऊर्मिः । हविष्यः । इन्द्रियावान् । मदिन्तमः । तम् । देवेभ्यः । देव-त्रा । दत्त । शुक्र-पेभ्यः । येषाम् । भागः । स्थ । स्वाहा ।