दि॒वि विष्णु॒र्व्य॒क्रᳪस्त॒ जाग॑तेन॒ छन्द॑सा॒ ततो॒ निर्भ॑क्तो॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मोऽन्तरि॑क्षे॒ विष्णु॒र्व्य॒क्रᳪस्त॒ त्रैष्टु॑भेन॒ छन्द॑सा॒ ततो॒ निर्भ॑क्तो॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः पृ॑थि॒व्यां विष्णु॒र्व्य॒क्रᳪस्त गाय॒त्रेण॒ छन्द॑सा॒ ततो॒ निर्भ॑क्तो॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मोऽस्मादन्ना॑ द॒स्यै प्र॑ति॒ष्ठाया॒ अग॑न्म॒ स्वः सं ज्योति॑षाभूम
di̱vi víṣṇur vyàkrᳪsta jā́gatena chándasā táto nírbhakto yó’smān dvéṣṭi yáṃ ca vayáṃ dvíṣmo’ntárikṣe víṣṇur vyàkrᳪsta trā́iṣṭubhena chándasā táto nírbhakto yó’smān dvéṣṭi yáṃ ca vayáṃ dvíṣmaḥ pṛthivyā́ṃ víṣṇur vyàkrᳪsta gāyatréṇa chándasā táto nírbhakto yó’smān dvéṣṭi yáṃ ca vayáṃ dvíṣmo’smād ánnād dásyai pratíṣṭhāyā́ agánma svàḥ sáṃ jyótiṣābhūma
На небе Вишну широко шагнул размером Джагати; оттуда отсечён тот, кто ненавидит нас, и тот, кого ненавидим мы. В воздушном пространстве Вишну широко шагнул размером Триштубх; оттуда отсечён тот, кто ненавидит нас, и тот, кого ненавидим мы. На земле Вишну широко шагнул размером Гаятри; оттуда отсечён тот, кто ненавидит нас, и тот, кого ненавидим мы. От этой пищи, утвердившись против дасью, мы пришли к Свар: да будем мы вместе со светом.
दि॒वि । विष्णुः॑ । वि॒ । अ॒क्रᳪ॒स्त॒ । जाग॑तेन । छन्द॑सा । ततः॑ । निः॒ऽभ॑क्तः । यः । अ॒स्मान् । द्वेष्टि॑ । यम् । च॒ । व॒यम् । द्वि॒ष्मः । अ॒न्तरि॑क्षे । विष्णुः॑ । वि॒ । अ॒क्रᳪ॒स्त॒ । त्रैष्टु॑भेन । छन्द॑सा । ततः॑ । निः॒ऽभ॑क्तः । यः । अ॒स्मान् । द्वेष्टि॑ । यम् । च॒ । व॒यम् । द्वि॒ष्मः । पृ॒थि॒व्याम् । विष्णुः॑ । वि॒ । अ॒क्रᳪ॒स्त॒ । गाय॒त्रेण । छन्द॑सा । ततः॑ । निः॒ऽभ॑क्तः । यः । अ॒स्मान् । द्वेष्टि॑ । यम् । च॒ । व॒यम् । द्वि॒ष्मः । अ॒स्मात् । अन्ना॑त् । द॒स्यै । प्र॒ति॒ष्ठाय॑ । अ॒ग॒न्म॒ । स्वः । सम् । ज्योति॑षा । अ॒भू॒म॒