आ॒ग्र॒या॒णश्च॑ मे वैश्वदे॒वश्च॑ मे ध्रु॒वश्च॑ मे वैश्वान॒रश्च॑ म ऐन्द्रा॒ग्नश्च॑ मे म॒हावै॑श्वदेश्च मे मरुत्व॒तीया॑श्च मे॒ निष्के॑वल्यश्च मे सावि॒त्रश्च॑ मे सारस्व॒तश्च॑ मे पात्नीव॒तश्च॑ मे हारियोज॒नश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम्
ā̱grayā̱ṇaś ca me vaiśvade̱vaś ca me dhru̱vaś ca me vaiśvānara̱ś ca ma aindrā̱gnaś ca me mahāvai̍śvadevaś ca me marutvatī̱yaś ca me niṣke̍valyaś ca me sāvi̱traś ca me sārasva̱taś ca me pātnīva̱taś ca me hāriyōja̱naś ca me yajñe̍na kalpantām
Да будут у меня Āgrayāṇa и Vaiśvadeva, Dhruva и Vaiśvānara, чаша Индры-и-Агни и Великий Vaiśvadeva, Marutvatīya и Niṣkevalya, Sāvitra и Sārasvata, Patnīvat и Hāriyōjana — да будут они должным образом устроены Жертвоприношением.
आग्रयाणः च मे । वैश्वदेवः च मे । ध्रुवः च मे । वैश्वानरः च मे । ऐन्द्राग्नः च मे । महावैश्वदेवः च मे । मरुत्वतीयः च मे । निष्केवल्यः च मे । सावित्रः च मे । सारस्वतः च मे । पात्नीवत् च मे । हारियोजनः च मे । यज्ञेन कल्पन्ताम् ।