अ॒ग्निश्च॑ म॒ इन्द्र॑श्च मे॒ सोम॑श्च म॒ इन्द्र॑श्च मे सवि॒ता च॑ म॒ इन्द्र॑श्च मे॒ सर॑स्वती च म॒ इन्द्र॑श्च मे पू॒षा च॑ म॒ इन्द्र॑श्च मे॒ बृह॒स्पति॑श्च म॒ इन्द्र॑श्च मे य॒ज्ञेन॑ कल्पन्ताम्
agníś ca me índraś ca me sómaś ca me índraś ca me savitā́ ca me índraś ca me sárasvatī ca me índraś ca me pūṣā́ ca me índraś ca me bṛ́haspátiś ca me índraś ca me yajñéna kalpantām
Да будут моими Агни и Индра; да будут моими Сома и Индра; да будут моими Савитар и Индра; да будут моими Сарасвати и Индра; да будут моими Пушан и Индра; да будут моими Брихаспати и Индра: да устроит мне их должным образом Жертвоприношение (yajña).
अ॒ग्निः । च॒ । मे॒ । इन्द्रः । च॒ । मे॒ । सोमः । च॒ । मे॒ । इन्द्रः । च॒ । मे॒ । सविता । च॒ । मे॒ । इन्द्रः । च॒ । मे॒ । सरस्वती । च॒ । मे॒ । इन्द्रः । च॒ । मे॒ । पूषा । च॒ । मे॒ । इन्द्रः । च॒ । मे॒ । बृहस्पतिः । च॒ । मे॒ । इन्द्रः । च॒ । मे॒ । य॒ज्ञेन॑ । क॒ल्प॒न्ता॒म् ।