अपा॒ररुं॑ पृथि॒व्यै दे॑व॒यज॑नाद्वध्यासं व्र॒जं ग॑च्छ गो॒ष्ठानं॒ वर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्यां॑ पृथि॒व्या श॒तेन॒ पाशै॒र्योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा मौ॑क् । अर॑रो॒ दिवं॒ मा प॑प्तो द्र॒प्सस्ते॒ द्यां मा स्क॑न् व्र॒जं ग॑च्छ गो॒ष्ठानं॒ वर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्यां॑ पृथि॒व्याᳪ श॒तेन॒ पाशै॒र्योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा मौ॑क्
apā̄rárum pṛthivyái devayájanād vadhyāsaṃ vrajáṃ gaccha goṣṭhā́naṃ varṣatu te dyáur bādhāna deva savitaḥ paramásyāṃ pṛthivyā́ḥ śaténa pāśáir yó ’smān dveṣṭí yaṃ ca vayáṃ dviṣmás tám ato mā́ mauk | aráro dívam mā́ papto drápsas te dyā́ṃ mā́ skan vrajáṃ gaccha goṣṭhā́naṃ varṣatu te dyáur bādhāna deva savitaḥ paramásyāṃ pṛthivyā́ḥ śaténa pāśáir yó ’smān dveṣṭí yaṃ ca vayáṃ dviṣmás tám ato mā́ mauk
О свободный от порока pāraru! От места богослужения богов я крепко связываю тебя: ступай к загону, к стойлу. Пусть Небо прольёт дождь для тебя. О бог Савитар, на высочайшей Земле свяжи сотней арканов того, кто ненавидит нас, и того, кого ненавидим мы; отсюда да не уйдёт он. Да не достигнет неба твоя капля; не пади на небо. Ступай к загону, к стойлу. Пусть Небо прольёт дождь для тебя. О бог Савитар, на высочайшей Земле свяжи сотней арканов того, кто ненавидит нас, и того, кого ненавидим мы; отсюда да не уйдёт он.
अपाररुम् । पृथिव्यै । देवयजनात् । वध्यासम् । व्रजम् । गच्छ । गोष्ठानम् । वर्षतु । ते । द्यौः । बधान । देव । सवितः । परमस्याम् । पृथिव्याः । शतेन । पाशैः । यः । अस्मान् । द्वेष्टि । यम् । च । वयम् । द्विष्मः । तम् । अतः । मा । मोक् । अररः । दिवम् । मा । पप्तः । द्रप्सः । ते । द्याम् । मा । स्कन् । व्रजम् । गच्छ । गोष्ठानम् । वर्षतु । ते । द्यौः । बधान । देव । सवितः । परमस्याम् । पृथिव्याः । शतेन । पाशैः । यः । अस्मान् । द्वेष्टि । यम् । च । वयम् । द्विष्मः । तम् । अतः । मा । मोक्