Prashna
पृथिवी च पृथिवीमात्रा चापश्चापोमात्रा च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा चाकाशश्चाकाशमात्रा च चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च घ्राणं च घ्रातव्यं च रसश्च रसयितव्यं च त्वक्च स्पर्शयितव्यं च वाक्च वक्तव्यं च हस्तौ चादातव्यं चोपस्थश्चानन्दयितव्यं च पायुश्च विसर्जयितव्यं च पादौ च गन्तव्यं च मनश्च मन्तव्यं च बुद्धिश्च बोद्धव्यं चाहङ्कारश्चाहङ्कर्तव्यं च चित्तं च चेतयितव्यं च तेजश्च विद्योतयितव्यं च प्राणश्च विधारयितव्यं च ॥८॥
पृथिवी च । पृथिवी-मात्रा च । आपः च । आपः-मात्रा च । तेजः च । तेजः-मात्रा च । वायुः च । वायु-मात्रा च । आकाशः च । आकाश-मात्रा च । चक्षुः च । द्रष्टव्यम् च । श्रोत्रम् च । श्रोतव्यम् च । घ्राणम् च । घ्रातव्यम् च । रसः च । रसयितव्यम् च । त्वक् च । स्पर्शयितव्यम् च । वाक् च । वक्तव्यम् च । हस्तौ च । आदातव्यम् च । उपस्थः च । आनन्दयितव्यम् च । पायुः च । विसर्जयितव्यम् च । पादौ च । गन्तव्यम् च । मनः च । मन्तव्यम् च । बुद्धिः च । बोद्धव्यम् च । अहङ्कारः च । अहङ्कर्तव्यम् च । चित्तम् च । चेतयितव्यम् च । तेजः च । विद्योतयितव्यम् च । प्राणः च । विधारयितव्यम् च ॥
pṛthivī ca pṛthivīmātrā cāpaścāpomātrā ca tejaśca tejomātrā ca vāyuśca vāyumātrā cākāśaścākāśamātrā ca cakṣuśca draṣṭavyaṃ ca śrotraṃ ca śrotavyaṃ ca ghrāṇaṃ ca ghrātavyaṃ ca rasaśca rasayitavyaṃ ca tvak ca sparśayitavyaṃ ca vāk ca vaktavyaṃ ca hastau cādātavyaṃ copasthaścānandayitavyaṃ ca pāyuśca visarjayitavyaṃ ca pādau ca gantavyaṃ ca manaśca mantavyaṃ ca buddhiśca boddhavyaṃ cāhaṅkāraścāhaṅkartavyaṃ ca cittaṃ ca cetayitavyaṃ ca tejaśca vidyotayitavyaṃ ca prāṇaśca vidhārayitavyaṃ ca ||8||
A terra e a medida da terra; as águas e a medida das águas; o fogo e a medida do fogo; o vento e a medida do vento; o espaço e a medida do espaço; o olho e o que deve ser visto; o ouvido e o que deve ser ouvido; o olfato e o que deve ser cheirado; o sabor e o que deve ser saboreado; a pele e o que deve ser tocado; a fala e o que deve ser dito; as mãos e o que deve ser tomado; o órgão gerador e o que deve ser fruído; o ânus e o que deve ser excretado; os pés e o que deve ser alcançado; a mente e o que deve ser pensado; o intelecto e o que deve ser compreendido; a egoidade e o que deve ser apropriado como “eu”; o citta e o que deve ser atendido; a luz e o que deve ser iluminado; e o prāṇa e o que deve ser sustentado.
Earth and the measure (substrate) of earth; waters and the measure of waters; fire and the measure of fire; wind and the measure of wind; space and the measure of space; the eye and what is to be seen; the ear and what is to be heard; the nose and what is to be smelled; taste and what is to be tasted; the skin and what is to be touched; speech and what is to be spoken; the hands and what is to be grasped; the generative organ and what is to be enjoyed; the anus and what is to be excreted; the feet and what is to be gone to; the mind and what is to be thought; the intellect and what is to be understood; egoity and what is to be appropriated as ‘I’; the mind-stuff (citta) and what is to be attended to; light and what is to be illumined; and prāṇa and what is to be sustained.