Narayana
ॐ अथ पुरुषो ह वै नारायणोऽकामयत प्रजाः सृजेयेति। नारायणात् प्राणो जायते। मनः सर्वेन्द्रियाणि च। खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी। नारायणाद् ब्रह्मा जायते। नारायणाद् रुद्रो जायते। नारायणाद् इन्द्रो जायते। नारायणात् प्रजापतयः प्रजायन्ते। नारायणाद् द्वादशादित्या रुद्रा वसवः सर्वाणि च छन्दांसि नारायणादेव समुत्पद्यन्ते। नारायणे प्रवर्तन्ते। नारायणे प्रलीयन्ते॥ (एतद् ऋग्वेदशिरोऽधीते)॥१॥
ॐ । अथ । पुरुषः । ह । वै । नारायणः । अकामयत । प्रजाः । सृजेय । इति । नारायणात् । प्राणः । जायते । मनः । सर्व-इन्द्रियाणि । च । खम् । वायुः । ज्योतिः । आपः । पृथिवी । विश्वस्य । धारिणी । नारायणात् । ब्रह्मा । जायते । नारायणात् । रुद्रः । जायते । नारायणात् । इन्द्रः । जायते । नारायणात् । प्रजापतयः । प्रजायन्ते । नारायणात् । द्वादश-आदित्याः । रुद्राः । वसवः । सर्वाणि । च । छन्दांसि । नारायणात् । एव । समुत्पद्यन्ते । नारायणे । प्रवर्तन्ते । नारायणे । प्रलीयन्ते ॥
oṃ atha puruṣo ha vai nārāyaṇo 'kāmayata prajāḥ sṛjeyeti | nārāyaṇāt prāṇo jāyate | manaḥ sarvendriyāṇi ca | khaṃ vāyur jyotir āpaḥ pṛthivī viśvasya dhāriṇī | nārāyaṇād brahmā jāyate | nārāyaṇād rudro jāyate | nārāyaṇād indro jāyate | nārāyaṇāt prajāpātayaḥ prajāyante | nārāyaṇād dvādaśādityā rudrā vasavaḥ sarvāṇi ca chandāṃsi nārāyaṇād eva samutpadyante | nārāyaṇe pravartante | nārāyaṇe pralīyante || (etad ṛgvedaśiro 'dhīte) ||1||
Om. Então, de fato, Nārāyaṇa, o Puruṣa, desejou: «Que eu crie a progênie». De Nārāyaṇa nasce o prāṇa; (dele) também a mente e todos os sentidos. Surgem o éter, o ar, a luz (fogo), as águas e a terra, sustentáculo do universo. De Nārāyaṇa nasce Brahmā; de Nārāyaṇa nasce Rudra; de Nārāyaṇa nasce Indra; de Nārāyaṇa são gerados os Prajāpatis. De Nārāyaṇa, com efeito, procedem os doze Ādityas, os Rudras, os Vasus e todos os metros védicos. De Nārāyaṇa somente eles emergem; em Nārāyaṇa prosseguem; em Nārāyaṇa se dissolvem. (Recita-se isto como a «cabeça» do Ṛgveda).
Om. Now, indeed, Nārāyaṇa, the Person, desired: “May I create progeny.” From Nārāyaṇa prāṇa is born; (from him) mind and all the senses as well. Ether, air, light (fire), waters, and earth—the supporter of the universe—(arise). From Nārāyaṇa Brahmā is born; from Nārāyaṇa Rudra is born; from Nārāyaṇa Indra is born; from Nārāyaṇa the Prajāpatis are produced. From Nārāyaṇa indeed arise the twelve Ādityas, the Rudras, the Vasus, and all the Vedic metres. From Nārāyaṇa alone they come forth; in Nārāyaṇa they proceed; in Nārāyaṇa they dissolve. (This is recited as the ‘head’ of the Ṛgveda.)