पुरुद॒स्मो विषु॑रूप॒ इन्दु॑र॒न्तर्म॑हि॒मान॑मानञ्ज॒ धीर॑: । एक॑पदीं द्वि॒पदीं॑ त्रि॒पदीं॒ चतु॒ष्पदीम॒ष्टाप॑दीं॒ भुव॒नानु॑ प्रथन्ता॒ᳪ स्वाहा॑
purudasmó víṣurūpa índur antár mahimā́nam ānañja dhī́raḥ | ékapadīṃ dvipádīṃ tripádīṃ catúṣpadīm aṣṭā́padīṃ bhúvanāny ánu prathantāṃ svā́hā
Indu, de muitos prodígios, de múltiplas formas, o sábio, alcançou no íntimo a grandeza. Que os mundos se expandam, seguindo o de um pé, o de dois pés, o de três pés, o de quatro pés, o de oito pés. Svāhā!
पुरुदस्मः । विषु-रूपः । इन्दुः । अन्तः । महिमानम् । आनञ्ज । धीरः । एक-पदीम् । द्वि-पदीम् । त्रि-पदीम् । चतुः-पदीम् । अष्टा-पदीम् । भुवनानि । अनु । प्रथन्ताम् । स्वाहा ।