ये दे॑वासो दि॒व्येका॑दश॒ स्थ पृ॑थि॒व्यामध्येका॑दश॒ स्थ । अ॒प्सु॒क्षितो॑ महि॒नैका॑दश॒ स्थ ते दे॑वासो य॒ज्ञमि॒मं जु॑षध्वम्
yé devā́so divy ékādaśa stʰa pṛthivyā́m ádʰy ékādaśa stʰa | apsú-kṣitó mahínā́ ékādaśa stʰa té devā́so yajñám imáṃ juṣadʰvam
Ó deuses, que sois onze no céu, que sois onze na terra, que, por vossa grandeza, sois onze habitando nas águas — ó deuses, comprazei-vos neste sacrifício!
ये । दे॒वासः । दि॒वि । एका॑दश । स्थ । पृ॑थि॒व्याम् । अ॒धि । एका॑दश । स्थ । अ॒प्सु॒-क्षितः । महि॒ना । एका॑दश । स्थ । ते । दे॒वासः । य॒ज्ञम् । इ॒मम् । जु॒ष॒ध्व॒म्