ये न॑: स॒पत्ना॒ अप॒ ते भ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑ बाधामहे॒ तान् । वस॑वो रु॒द्रा आ॑दि॒त्या उ॑परि॒स्पृशं॑ मो॒ग्रं चेत्ता॑रमधिरा॒जम॑क्रन्
yé naḥ sapatnā́ ápa té bhavantu indrāgníbhyām áva bādhāmahe tā́n | vásavo rudrā́ ādityā́ uparispṛ́śaṃ ugráṃ céttāram adhirā́jam akran
Longe de nós estejam os que são nossos rivais; por Indra e Agni nós os derrubamos. Os Vasus, os Rudras e os Ādityas fizeram (dele) um vigia terrível que tudo alcança, um sobre-rei — (contudo) a ser repelido para longe de nós.
ये । नः । सपत्नाः । अप । ते । भवन्तु । इन्द्राग्निभ्याम् । अव । बाधामहे । तान् । वसवः । रुद्राः । आदित्याः । उपरिस्पृशम् । उग्रम् । चेत्तारम् । अधिराजम् । अक्रन्