सम॑ध्व॒रायो॒षसो॑ नमन्त दधि॒क्रावे॑व॒ शुच॑ये प॒दाय॑ । अ॒र्वा॒ची॒नं व॑सु॒विदं॒ भगं॑ नो॒ रथ॑मि॒वाश्वा॑ वा॒जिन॒ आ व॑हन्तु
sám adhvarā́yóṣaso namanta dadhikrā́veva śúcaye padā́ya | arvācīnáṁ vasuvídaṁ bhágaṁ no rátham ivā́śvā vājína ā́ vahantu
Ao sacrifício as Auroras se inclinam juntas, como Dadhikrāvan ao curso luminoso. Que venha a nós, voltado para cá, Bhaga, descobridor de riquezas; como cavalos, como vigorosos corredores, que o tragam para perto de nós como um carro.
सम् । अध्वराय । उषसः । नमन्त । दधिक्राः-इव । शुचये । पदाय । अर्वाचीनम् । वसु-विदम् । भगम् । नः । रथम्-इव । अश्वाः । वाजिनः । आ । वहन्तु