आप॑श्चित्पिप्यु स्त॒र्यो न गावो॒ नक्ष॑न्नृ॒तं ज॑रि॒तार॑स्त इन्द्र । या॒हि वा॒युर्न नि॒युतो॑ नो॒ अच्छा॒ त्वᳪ हि धी॒भिर्दय॑से॒ वि वाजा॑न्
ā́paś cit pipyu staryò ná gā́vo nákṣann ṛtáṃ jaritā́ras te indra | yā́hi vāyúr ná niyúto no ácchā tváṃ hí dhībhír dayase ví vājā́n
Como as largas águas encheram (seu leito), como as vacas (seus currais), assim teus louvadores, ó Indra, alcançaram o ṛta. Vem a nós como Vāyu com suas parelhas (niyút) atreladas; pois tu, em verdade, por pensamentos inspirados repartes os prêmios.
आपः । चित् । पिप्युः । स्त॒र्यः । न । गावः । नक्ष॑न् । ऋ॒तम् । ज॑रि॒तारः । ते । इन्द्र । या॒हि । वा॒युः । न । नि॒युतः । नः । अ॒च्छ । त्वम् । हि । धी॒भिः । दय॑से । वि । वाजा॑न्