तप॑से कौला॒लं मा॒यायै॑ क॒र्मार॑ᳪ रू॒पाय॑ मणिका॒रᳪ शु॒भे व॒पᳪ श॑र॒व्या॒या इषुका॒रᳪ हे॒त्यै ध॑नुष्का॒रं कर्म॑णे ज्याका॒रं दि॒ष्टाय॑ रज्जुस॒र्जं मृ॒त्यवे॑ मृग॒युमन्त॑काय श्व॒निन॑म्
tápase kaulālā́ṃ māyā́yai karmā́raṃ rūpā́ya maṇikārám śubhé vapáṃ śaravyā́yā iṣukārám hetyái dhanuskārám kármaṇe jyākārám diṣṭā́ya rajju-sarjáṃ mṛtyáve mṛgayúm ántakāya śvanínam
Ao Ardor ascético (Tapas), o oleiro; ao Artifício (Māyā), o ferreiro; à Forma, o ourives; ao Auspicioso (Śubha), o barbeiro; à Arquearia, o fazedor de flechas; à Arma, o fazedor de arcos; ao Trabalho, o fazedor de cordas de arco; à Mira (Diṣṭā), o cordoeiro; à Morte, o caçador; ao Terminador (Antaka), o homem dos cães (perreiro).
तप॑से । कौ॒ला॒लम् । मा॒यायै॑ । क॒र्मारम् । रू॒पाय॑ । म॒णि॒का॒रम् । शु॒भे । व॒पम् । श॒र॒व्या॒याः । इ॒षु॒-का॒रम् । हे॒त्यै । ध॒नु॒ष्का॒रम् । कर्म॑णे । ज्या॒-का॒रम् । दि॒ष्टाय॑ । र॒ज्जु॒-स॒र्जम् । मृ॒त्यवे॑ । मृ॒ग॒युम् । अन्त॑काय । श्व॒निन॑म् ।