अ॒ग्नेः प॑क्ष॒तिर्वा॒योर्निप॑क्षति॒रिन्द्र॑स्य तृ॒तीया॒ सोम॑स्य चतु॒र्थ्यदि॑त्यै पञ्च॒मीन्द्रा॒ण्यै ष॒ष्ठी म॒रुता॑ᳪ सप्त॒मी बृह॒स्पते॑रष्ट॒म्य॒र्य॒म्णो न॑व॒मी धा॒तुर्द॑श॒मीन्द्र॑स्यैकाद॒शी वरु॑णस्य द्वाद॒शी य॒मस्य॑ त्रयोद॒शी
agnéḥ pakṣatír vāyór nípakṣatír índrasya tṛtī́yā sómasya caturthī́ ádityai pañcamī́ índrāṇyai ṣaṣṭhī́ marútāṃ saptamī́ bṛ́haspáter aṣṭamī́ aryamṇó navamī́ dhātúr daśamī́ índrasyaikādaśī́ váruṇasya dvādaśī́ yámasya trayodaśī́
A asa é de Agni; a subasa é de Vāyu; a terceira (parte) é de Indra; a quarta, de Soma; a quinta, de Aditi; a sexta, de Indrāṇī; a sétima, dos Maruts; a oitava, de Bṛhaspati; a nona, de Aryaman; a décima, de Dhātṛ; a décima primeira, de Indra; a décima segunda, de Varuṇa; a décima terceira, de Yama.
अग्नेः । पक्षतिः । वायोः । निपक्षतिः । इन्द्रस्य । तृतीया । सोमस्य । चतुर्थी । अदित्यै । पञ्चमी । इन्द्राण्यै । षष्ठी । मरुताम् । सप्तमी । बृहस्पतेः । अष्टमी । अर्यम्णः । नवमी । धातुः । दशमी । इन्द्रस्य । एकादशी । वरुणस्य । द्वादशी । यमस्य । त्रयोदशी