होता॑ यक्षत्ति॒स्रो दे॒वीर्न भे॑ष॒जं त्रय॑स्त्रि॒धात॑वो॒ऽपसो॑ रू॒पमिन्द्रे॑ हिर॒ण्यय॑म॒श्विनेडा॒ न भार॑ती वा॒चा सर॑स्वती॒ मह॒ इन्द्रा॑य दुह इन्द्रि॒यं पय॒: सोम॑: परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑
hótā yákṣat tísro devī́r ná bheṣajáṃ tráyas tridhā́tavo’páso rūpám índre hiraṇyáyam aśvinéḍā ná bhā́ratī vācā́ sárasvatī máha índrā́ya duha indríyaṃ páyaḥ sómaḥ parisrutā́ ghṛtáṃ mádhu vyàntu ā́jyasya hótar yája
Que o Hotṛ realize o sacrifício: as três Deusas como remédio; os três constituintes, a forma da obra sagrada, dourada para Indra; os Aśvins; Iḍā, por assim dizer, Bhāratī com a Palavra, Sarasvatī. Elas ordenham para Indra a grandeza, a força como leite. Que fluam: o leite, o Soma bem coado, o ghee e o mel — para a unção; ó Hotṛ, sacrifica.
होता । यक्षत् । तिस्रः । देवीः । न । भेषजम् । त्रयः । त्रि-धातवः । अपसः । रूपम् । इन्द्रे । हिरण्ययम् । अश्विनौ । इडा । न । भारती । वाचा । सरस्वती । महः । इन्द्राय । दुह । इन्द्रियम् । पयः । सोमः । परि-स्रुताः । घृतम् । मधु । व्यन्तु । आज्यस्य । होतः । यज ।