यास्ते॑ अग्ने॒ सूर्ये॒ रुचो॒ दिव॑मात॒न्वन्ति॑ र॒श्मिभि॑: । ताभि॑र्नो अ॒द्य सर्वा॑भी रु॒चे जना॑य नस्कृधि
yā́s te agne sū́rye rúcó dívam ātanvánti raśmíbhíḥ | tā́bhir no adyá sárvābhī rucé jánāya naḥ kṛdhi
Ó Agni, esses esplendores teus que, no Sol, estendem o céu com raios — com todos eles, hoje, concede-nos brilho; faze(-nos) luminosos para o povo.
याः । ते । अग्ने । सूर्ये । रुचः । दिवम् । आतन्वन्ति । रश्मिभिः । ताभिः । नः । अद्य । सर्वाभिः । रुचे । जनाय । नः । कृधि ।