उ॒द्ग्रा॒भं च॑ निग्रा॒भं च॒ ब्रह्म॑ दे॒वा अ॑वीवृधन् । अधा॑ स॒पत्ना॑निन्द्रा॒ग्नी मे॑ विषू॒चीना॒न्व्य॒स्यताम्
udgrā́bhaṁ ca nigrā́bhaṁ ca bráhma devā́ avīvṛdhan | ádhā sapatnā́n indrāgnī́ me viṣūcī́nān vyasyatām
Os Deuses fortaleceram o Brahman, tanto o agarrar de cima quanto o agarrar de baixo; e então que Indra e Agni dispersem os meus rivais, lançando-os apartados em múltiplas direções.
उ॒द्ग्रा॒भम् । च॒ । नि॒ग्रा॒भम् । च॒ । ब्रह्म॑ । दे॒वाः । अ॒वी॒वृ॒धन् । अधा॑ । स॒पत्ना॑न् । इन्द्रा॒ग्नी । मे॒ । वि॒षू॒चीना॑न् । वि । अ॒स्य॒ताम्