इन्द्रं॒ विश्वा॑ अवीवृधन्त्समु॒द्रव्य॑चसं॒ गिर॑: । र॒थीत॑मᳪ र॒थीनां॒ वाजा॑ना॒ᳪ सत्प॑तिं॒ पति॑म्
índraṃ víśvā avīvṛdhan samudrávyacasaṃ gíraḥ | rathītamáṃ rathīnā́ṃ vā́jānāṃ sátpatiṃ pátim
Todos os cânticos fortaleceram Indra, de poder vasto como o oceano; o melhor dos condutores de carros entre os condutores de carros, o Senhor — mestre dos prêmios, o verdadeiro senhor dos bons.
इन्द्र॑म् । विश्वाः॑ । अ॒वी॒वृ॒ध॒न् । स॒मु॒द्र-व्य॑चसम् । गिरः॑ । र॒थी॒तमम् । र॒थी॒नाम् । वाजा॑नाम् । सत्-प॑तिम् । पति॑म् ।