इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां॑ म॒रुता॒ᳪ शर्ध॑ उ॒ग्रम् । म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात्
índrasya vṛ́ṣṇo váruṇasya rā́jña ādityā́nāṃ marútāṃ śárdha ugrám | mahā́manasāṃ bhuvanacyavā́nāṃ ghóṣo devā́nāṃ jáyatām úd asthāt ||
De Indra, o Touro, de Varuṇa, o Rei, dos Ādityas, da terrível hoste dos Maruts — dos magnânimos que fazem tremer os mundos — ergueu-se ao alto o brado dos deuses vitoriosos.
इन्द्रस्य । वृष्ण: । वरुणस्य । राज्ञ: । आदित्यानाम् । मरुताम् । शर्ध: । उग्रम् । महा-मनसाम् । भुवन-च्यवानाम् । घोष: । देवानाम् । जयताम् । उद-अस्थात्