पा॒व॒कया॒ यश्चि॒तय॑न्त्या कृ॒पा क्षाम॑न् रुरु॒च उ॒षसो॒ न भा॒नुना॑ । तूर्व॒न् न याम॒न्नेत॑शस्य॒ नू रण॒ आ यो घृ॒णे न त॑तृषा॒णो अ॒जर॑:
pāvakáyā yáś citáyantyā kṛpā́ kṣā́man rurúca uṣáso ná bhānúnā | tū́rvan ná yā́mann étaśasya nú raṇa ā́ yó ghṛṇé ná tatṛṣāṇó ajáraḥ
Com a chama purificadora que torna manifesto, com favor gracioso, ele resplandece sobre a terra como Uṣas (a Aurora) com seu raio. Impetuoso em seu curso como Etaśa, agora em exultação, — ele, o que não envelhece, vem com ardor, sedento da oferenda.
पावकया । यत् । चितयन्त्या । कृपा । क्षामन् । रुरुचः । उषसः । न । भानुना । तूर्वन् । न । यामन् । एतशस्य । नु । रण । आ । यः । घृणे । न । ततृषाणः । अजरः ।