नमो॑ऽस्तु रु॒द्रेभ्यो॒ येऽन्तरि॑क्षे॒ येषां॒ वात॒ इष॑वः । तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः । तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः
námo’stu rudrébhyo yé’ntárikṣe yéṣāṃ vā́ta iṣávaḥ | tébhyo dáśa prācī́r dáśa dakṣiṇā́ dáśa pratī́cīr dáśodī́cīr dáśordhvā́ḥ | tébhyo námo astu té no’vantu té no mṛḍayantu té yáṃ dviṣmáḥ yáś ca no dvéṣṭi tám eṣāṃ jámbhe dadhmaḥ
Homenagem aos Rudras que estão no espaço intermédio (antarikṣa), cujas flechas são o vento. Dez sejam a leste, dez ao sul, dez a oeste, dez ao norte e dez acima. A eles, homenagem. Que nos protejam; que nos sejam benignos. Aquele a quem odiamos e aquele que nos odeia — a esse entregamos às suas mandíbulas.
नमः । अस्तु । रुद्रेभ्यः । ये । अन्तरिक्षे । येषाम् । वातः । इषवः । तेभ्यः । दश । प्राचीः । दश । दक्षिणाः । दश । प्रतीचीः । दश । उदीचीः । दश । ऊर्ध्वाः । तेभ्यः । नमः । अस्तु । ते । नः । अवन्तु । ते । नः । मृडयन्तु । ते । यम् । द्विष्मः । यः । च । नः । द्वेष्टि । तम् । एषाम् । जम्भे । दध्मः