नमो॑ऽस्तु रु॒द्रेभ्यो॒ ये दि॒वि येषां॑ व॒र्षमिष॑वः । तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः । तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः
námo’stu rudrébhyo yé diví yéṣāṃ vārṣám-iṣávaḥ | tébhyo dáśa prācī́r dáśa dakṣiṇā́ dáśa pratī́cīr dáśodī́cīr dáśordhvā́ḥ | tébhyo námo astu té no’vantu té no mṛḍayantu té yáṃ dviṣmáḥ yáś ca no dvéṣṭi tám eṣāṃ jámbhe dadhmaḥ
Homenagem aos Rudras que estão no céu, cujas flechas são a chuva. Dez sejam a leste, dez ao sul, dez a oeste, dez ao norte e dez acima. A eles, homenagem. Que nos protejam; que nos sejam benignos. Aquele a quem odiamos e aquele que nos odeia — a esse entregamos às suas mandíbulas.
नमः । अस्तु । रुद्रेभ्यः । ये । दिवि । येषाम् । वर्षम्-इषवः । तेभ्यः । दश । प्राचीः । दश । दक्षिणाः । दश । प्रतीचीः । दश । उदीचीः । दश । ऊर्ध्वाः । तेभ्यः । नमः । अस्तु । ते । नः । अवन्तु । ते । नः । मृडयन्तु । ते । यम् । द्विष्मः । यः । च । नः । द्वेष्टि । तम् । एषाम् । जम्भे । दध्मः