अ॒यं प॒श्चाद्वि॒श्वव्य॑चा॒स्तस्य॒ रथ॑प्रो॒तश्चास॑मरथश्च सेनानीग्राम॒ण्यौ॒ । प्र॒म्लोच॑न्ती चानु॒म्लोच॑न्ती चाप्स॒रसौ॑ व्या॒घ्रा हे॒तिः स॒र्पा: प्रहे॑ति॒स्तेभ्यो॒ नमो अ॑स्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः
ayaṁ paścād viśvavyacās tasya rathaprotaś cāsamarathaś ca senānīgrāmaṇyau | pramlocantī cānumlocantī cāpsarasau vyāghrā hetiḥ sarpāḥ prahetiḥ tebhyo namo astu te no ’vantu te no mr̥ḍayantu te yaṁ dviṣmo yaś ca no dveṣṭi tameṣāṁ jambhe dadhmaḥ
Isto, atrás, é Viśvavyacās, o Onipenetrante; dele são Rathaprota e Asamaratha, os dois chefes, comandante e chefe da aldeia. Pramlocantī e Anumlocantī são as duas Apsaras; os tigres são o seu gado; dele são Heti (a Arma), as serpentes e Praheti (a Arma arremessada). A eles, reverência: que nos protejam, que nos sejam benignos; aquele a quem odiamos e aquele que nos odeia, nós o colocamos nas suas mandíbulas.
अ॒यम् । प॒श्चात् । वि॒श्व-व्य॑चाः । तस्य॑ । रथ-प्रो॒तः । च । अ-स॑म-रथः । च । सेनानी-ग्राम॒ण्यौ॒ । प्र॒म्लोच॑न्ती । च । अनु॒म्लोच॑न्ती । च । अ॒प्स॒रसौ॑ । व्या॒घ्राः । हे॒तिः । स॒र्पाः । प्र-हे॑तिः । तेभ्यः॑ । नमः॑ । अस्तु । ते । नः । अवन्तु । ते । नः । मृडयन्तु । ते । यम् । द्वि॒ष्मः । यः । च । नः । द्वेष्टि । तम् । एषाम् । जम्भे॑ । दध्मः