यवा॑नां भा॒गोऽस्यय॑वाना॒माधि॑पत्यं प्र॒जा स्पृ॒ताश्च॑तुश्चत्वारि॒ᳪश स्तोम॑ ऋ॑भू॒णां भा॒गो॒ऽसि विश्वे॑षां दे॒वाना॒माधि॑पत्यं भू॒तᳪ स्पृ॒तं त्र॑यस्त्रि॒ᳪश स्तोम॑:
yávānāṃ bhāgó ’sy ayávānām ádhipatyaṃ prajā́ḥ spṛtā́ś catuścatvāriṃśá stóma ṛbhū́nāṃ bhāgó ’si víśveṣāṃ devā́nām ádhipatyaṃ bhūtáṃ spṛtáṃ trayastriṃśá stómaḥ
Tu és a porção da cevada: o senhorio sobre o que não é cevada — as criaturas, devidamente confirmado; o stoma Catuścatvāriṃśa. Tu és a porção dos Ṛbhus: o senhorio de todos os deuses — o Ser, devidamente confirmado; o stoma Trayastriṃśa.
यवानाम् । भागः । असि । अयवानाम् । आधिपत्यम् । प्रजाः । स्पृताः । चतुश्चत्वारिंशः । स्तोमः । ऋभूणाम् । भागः । असि । विश्वेषाम् । देवानाम् । आधिपत्यम् । भूतम् । स्पृतम् । त्रयस्त्रिंशः । स्तोमः ।