इय॑द॒स्यायु॑र॒स्यायु॒र्मयि॑ धेहि॒ युङ्ङ॑सि॒ वर्चो॑ऽसि॒ वर्चो॒ मयि॑ धे॒ह्यूर्ग॒स्यूर्जं॒ मयि॑ धेहि ।। इन्द्र॑स्य वां वीर्य॒कृतो॑ बा॒हू अ॑भ्यु॒पाव॑हरामि
íyad asyā́yuḥ | asyā́yur máyi dhehi | yúṅṅ asi | várco ’si | várco máyi dhehi | ū́rg asy ūrjáṃ máyi dhehi || índrasya vāṃ vīrya-kṛ́to bāhū́ abhyùpā́vaharāmi
Tanto da sua vida — a sua vida coloca em mim; tu és a força de jungir; tu és o fulgor — o fulgor coloca em mim; da sua seiva — a seiva coloca em mim. Os dois braços, obreiros do poder de Indra, eu os ergo e os trago para junto de mim.
इयत् । अस्य । आयुः । अस्य । आयुः । मयि । धेहि । युङ्ङसि । वर्चः । असि । वर्चः । मयि । धेहि । ऊर्गस्य । ऊर्जम् । मयि । धेहि । इन्द्रस्य । वाम् । वीर्य-कृतः । बाहू इति । अभि-उप-आवहरामि