Yogatattva
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् । तत्रोपविश्य मेधावी पद्मासनसमन्वितः ॥
ऋजुकायः प्राञ्जलिश्च प्रणमेदिष्टदेवताम् । ततो दक्षिणहस्तस्य अङ्गुष्ठेनैव पिङ्गलाम् ॥
निरुध्य पूरयेद्वायुमिडया तु शनैः शनैः । यथाशक्त्यविरोधेन ततः कुर्याच्च कुम्भकम् ॥
पुनस्त्यजेत्पिङ्गलया शनैरेव न वेगतः । पुनः पिङ्गलयापूर्य पूरयेदुदरं शनैः ॥
धारयित्वा यथाशक्ति रेचयेदिडया शनैः । यया त्यजेत्तयापूर्य धारयेदविरोधतः ॥
जानु प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम् । अङ्गुलिस्फोटनं कुर्यात्सा मात्रा परिगीयते ॥३५–४०॥
न । अत्युच्छ्रितम् । न । अतिनीचम् । चैल-अजिन-कुश-उत्तरम् ।
तत्र । उपविश्य । मेधावी । पद्मासन-समन्वितः ।
ऋजु-कायः । प्राञ्जलिः च । प्रणमेत् । इष्ट-देवताम् ।
ततः । दक्षिण-हस्तस्य । अङ्गुष्ठेन एव । पिङ्गलाम् ।
निरुध्य । पूरयेत् । वायुम् । इडया तु । शनैः शनैः ।
यथा-शक्ति । अविरोधेन । ततः । कुर्यात् च । कुम्भकम् ।
पुनः । त्यजेत् । पिङ्गलया । शनैः एव । न । वेगतः ।
पुनः । पिङ्गलया । पूर्य । पूरयेत् । उदरम् । शनैः ।
धारयित्वा । यथा-शक्ति । रेचयेत् । इडया । शनैः ।
यया । त्यजेत् । तया । पूर्य । धारयेत् । अविरोधतः ।
जानु । प्रदक्षिणी-कृत्य । न । द्रुतम् । न । विलम्बितम् ।
अङ्गुलि-स्फोटनम् । कुर्यात् । सा । मात्रा । परिगीयते ॥३५–४०॥
nātyucchritaṃ nātinīcaṃ cailājina-kuśottaram | tatropaviśya medhāvī padmāsana-samanvitaḥ ||
ṛjukāyaḥ prāñjaliś ca praṇamed iṣṭadevatām | tato dakṣiṇahastasya aṅguṣṭhenaiva piṅgalām ||
nirudhya pūrayed vāyum iḍayā tu śanaiḥ śanaiḥ | yathāśakty-avirodhena tataḥ kuryāc ca kumbhakam ||
punas tyajet piṅgalayā śanaireva na vegataḥ | punaḥ piṅgalayāpūrya pūrayed udaraṃ śanaiḥ ||
dhārayitvā yathāśakti recayed iḍayā śanaiḥ | yayā tyajet tayāpūrya dhārayed avirodhataḥ ||
jānu pradakṣiṇīkṛtya na drutaṃ na vilambitam | aṅgulisphoṭanaṃ kuryāt sā mātrā parigīyate ||35–40||
ਇਸ ਸ਼ਲੋਕ ਵਿੱਚ ਪਿਛਲੇ ਵਰਗਾ ਹੀ ਉਪਦੇਸ਼ ਦੁਹਰਾਇਆ ਗਿਆ ਹੈ: ਆਸਨ ਨਾ ਬਹੁਤ ਉੱਚਾ ਨਾ ਬਹੁਤ ਨੀਵਾਂ, ਉੱਤੇ ਕੱਪੜਾ-ਮ੍ਰਿਗਚਰਮ-ਕੁਸ਼ਾ; ਪਦਮਾਸਨ ਵਿੱਚ ਬੈਠ ਕੇ ਇਸ਼ਟਦੇਵਤਾ ਨੂੰ ਪ੍ਰਣਾਮ; ਸੱਜੇ ਅੰਗੂਠੇ ਨਾਲ ਪਿੰਗਲਾ ਰੋਕ ਕੇ ਇਡਾ ਰਾਹੀਂ ਹੌਲੀ ਪੂਰਕ, ਯਥਾਸਕਤੀ ਕੁੰਭਕ; ਪਿੰਗਲਾ ਰਾਹੀਂ ਹੌਲੀ ਰੇਚਨ; ਮੁੜ ਪਿੰਗਲਾ ਰਾਹੀਂ ਪੂਰਕ-ਧਾਰਣ; ਇਡਾ ਰਾਹੀਂ ਹੌਲੀ ਰੇਚਨ; ਜਿਸ ਨਾਸਿਕਾ ਨਾਲ ਛੱਡੇ ਉਸੇ ਨਾਲ ਭਰੇ; ਉਂਗਲਾਂ ਚਟਕਾਉਣ ਦੀ ਲਯਬੱਧ ਗਿਣਤੀ ਨੂੰ ‘ਮਾਤਰਾ’ ਕਿਹਾ ਗਿਆ ਹੈ।
This verse reproduces the same instructional passage as Yogatattva.35 in the provided input: it prescribes a properly prepared seat, padmāsana, salutation to the chosen deity, and a measured, non-straining prāṇāyāma sequence involving iḍā and piṅgalā with kumbhaka and mātrā timing.